Wednesday, November 13, 2013

तुलसी स्तुतिः


आज, तुलसी विवाह या पूजा के दौरान इस प्रार्थना को सुने....

तुलसी स्तुतिः

नारायण उवाच:
अन्तर्हितायां तस्यां च गत्वा च तुलसीवनम्!
हरिः सम्पूज्य तुष्टाव तुलसीं विरहातुरः!! १ !!

श्रीभगवानुवाच:
वृन्दारूपाश्च वृक्षाश्च यदैकत्र भवन्ति च!
विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजाम्यहम् !! २ !!

पुरा बभूव या देवी त्वादौ वृन्दावने वने !
तेन वृन्दावनी ख्यातासौभाग्यां तां भजाम्यहम् !! 3 !!

असंख्येषु च विश्वेषु पूजिता या निरन्तरम् !
तेन विश्वपूजिताख्यां जगत्पूज्यां भजाम्यहम् !! ४ !!

असंख्यानि च विश्वानिपवित्राणियया सदा !
तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् !! ५ !!

देवा न तुष्टाः पुष्पाणां समूहेन यया विना !
तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः !! ६ !!

विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद् ध्रुवम् !
नन्दिनीतेन विख्याता सा प्रीता भवताद्धिमे !! ७ !!

यस्यादेव्यास्तुला नास्तिविश्वेषु निखिलेषु च !
तुलसी तेन विख्याता तां यामि शरणं प्रियाम् !! ८ !!

कृष्णजीवनरुपा या शश्वत्प्रियतमा सती !
तेन कृष्णजीवनीति मम रक्षतु जीवनम् !! ९ !!

इति श्रीब्रह्मवैवर्ते प्रकृतिखण्डे तुलसी स्तुतिः
श्रीतुलसिमातां समर्पणमस्तु


No comments:

Post a Comment