श्रीललितापञ्चरत्नं
प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्तिकशोभिनासम् । आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मंदस्मितं मृगमदोज्ज्वलफालदेशम् ।। 1 ।।
प्रातर्भजामि ललिताभुजकल्पवल्लीँ रक्तांगुलीयलसदंगुलिपल्लवाढ्याम
् ।
माणिक्यहेमवलयाङ्गदशोभमानां पुण्ड्रेक्षुचापकुसुमेषुसृणीर्द
धानाम् ।। 2 ।।
प्रातर्नमामि ललिताचरणारविँदं भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादिसुरनायकपूजनीयं पद्मांकुशध्वजसुदर्शनलाञ्छनाढ्य
म् ।। 3 ।।
प्रातः स्तुवे परशिवां ललितां भवानीं त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां विद्येश्वरीं निगमवाङ्मनसातिदूराम् ।। 4 ।।
प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति ।
श्री शांभवीति जगतां जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ।। 5 ।।
यः श्लोकपञ्चकमिदं ललिताम्बिकायाः सौभाग्यदंसुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ।। 6 ।।
।। श्रीललितापञ्चरत्नं संपूर्णम् ।।
No comments:
Post a Comment