Monday, April 30, 2012

परशुरामकृतं कालीस्तोत्रम्

परशुरामकृतं कालीस्तोत्रम् परशुराम उवाच नम: शंकरकान्तायै सारायै ते नमो नमः। नमो दुर्गतिनाशिन्यै मायायै ते नमो नमः॥ नमो नमो जगद्धायै जगत्कर्यै नमो नमः। नमोऽस्तु ते जगन्मात्रे कारणायै नमो नमः॥ प्रसीद जगतां मात: सृष्टिसंहारकारिणि। त्वत्पादे शरणं यामि प्रतिज्ञां सार्थिकां कुरु॥ त्वयि मे विमुखायां च को मां रक्षितुमीश्वरः। त्वं प्रसन्ना भव शुभे मां भक्तं भक्तवत्सले॥ युष्माभि: शिवलोके च मह्यं दत्तो वर: पुरा। तं वरं सफलं कर्तु त्वमर्हसि वरानने॥ जामदग्न्यस्तवं श्रुत्वा प्रसन्नाभवदम्बिका। मा भैरित्येवमुक्त्वा तु तत्रैवान्तरधीयत॥ एतद् भृगुकृतं स्तोत्रं भक्तियुक्तश्च य: पठेत्। महाभयात् समुत्तीर्ण: स भवेदवलीलया॥ स पूजितश्च त्रैलोक्ये त्रैलोक्यविजयी भवेत्। ज्ञानिश्रेष्ठो भवेच्चैव वैरिपक्षविमर्दकः॥

1 comment:

  1. जय शक्ति जय माँ काली ......

    ReplyDelete