Monday, March 28, 2011

परशुरामकृतं कालीस्तोत्रम्

परशुरामकृतं कालीस्तोत्रम्

परशुराम उवाच

नम: शंकरकान्तायै सारायै ते नमो नमः।

नमो दुर्गतिनाशिन्यै मायायै ते नमो नमः॥

नमो नमो जगद्धायै जगत्कर्यै नमो नमः।

नमोऽस्तु ते जगन्मात्रे कारणायै नमो नमः॥

प्रसीद जगतां मात: सृष्टिसंहारकारिणि।

त्वत्पादे शरणं यामि प्रतिज्ञां सार्थिकां कुरु॥

त्वयि मे विमुखायां च को मां रक्षितुमीश्वरः।

त्वं प्रसन्ना भव शुभे मां भक्तं भक्तवत्सले॥

युष्माभि: शिवलोके च मह्यं दत्तो वर: पुरा।

तं वरं सफलं कर्तु त्वमर्हसि वरानने॥

जामदग्न्यस्तवं श्रुत्वा प्रसन्नाभवदम्बिका।

मा भैरित्येवमुक्त्वा तु तत्रैवान्तरधीयत॥

एतद् भृगुकृतं स्तोत्रं भक्तियुक्तश्च य: पठेत्।

महाभयात् समुत्तीर्ण: स भवेदवलीलया॥

स पूजितश्च त्रैलोक्ये त्रैलोक्यविजयी भवेत्।

ज्ञानिश्रेष्ठो भवेच्चैव वैरिपक्षविमर्दकः॥

No comments:

Post a Comment