Wednesday, March 30, 2011

मन्त्रात्मकं श्रीमारुतिस्तोत्रं

मन्त्रात्मकं श्रीमारुतिस्तोत्रं

ॐ नमो वायुपुत्राय भीमरूपाय धीमते |

नमस्ते रामदूताय कामरूपाय श्रीमते ||१

मोहशोकविनाशाय सीताशोकविनाशिने |

भग्नाशोकवनायास्तु दग्धलङ्काय वाग्मिने ||२

गतिनिर्जितवाताय लक्ष्मणप्राणदाय च |

वनौकसां वरिष्ठाय वशिने वनवासिने ||३

तत्वज्ञानसुधासिन्धुनिमग्नाय महीयसे|

आञ्जनेयाय शूराय सुग्रीवसचिवाय ते ||४

जन्ममृत्युभयघ्नाय सर्वक्लेशहराय च |

नेदिष्ठाय प्रेतभूतपिशाचभयहारिणे ||५

यातनानाशनायास्तु नमो मर्कटरूपिणे|

यक्षराक्षसशार्दूलसर्पवृश्चिकभीहते ||६

महाबलाय वीराय चिरंजीविन उद्धते |

हारिणे वज्र देहाय चोल्लन्घितमहाब्धये ॥७

बलिनामग्रगण्याय नमो नः पाहि मारुते |

लाभदोऽसि तवमेवाशु हनुमन राक्षसान्तक ॥८

यशो जयं च मे देहि शत्रून नाशय नाशय |

स्वाश्रिता नाम भयदं य एवं स्तौति मारुतिं ॥

हानिः कुतौ भवेत्तस्य सर्वत्र विजयी भवेत् ॥ 9

No comments:

Post a Comment