Tuesday, September 6, 2011

श्रीदुर्गा देवी कवचम्....


श्रीदुर्गा देवी कवचम्
श्रीगणेशाय नम:
श्रृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥१॥
अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् ।
स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥२॥
उमादेवि शिर: पातु ललाटे शूलधारिणी ।
चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी॥३॥
सुगन्धा नासिके पातु वदनं सर्वधारिणी ।
जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा ॥४॥
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ।
हृदयं ललितादेवी उदरं सिंहवाहनी ॥५॥
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ।
महाबला च जङ्घे द्वे पावौ भूतलवासिनी ॥६॥
एवं स्थिताsसि देवि त्वं त्रैलोक्ये रक्षणात्मिका ।
रक्ष मां सर्वगात्रेषु दुर्गा देवि नमो
sस्तुते ॥७॥
॥ इति श्रीकुब्जिकातन्त्रे दुर्गाकवचम् सम्पूर्णम् ॥

No comments:

Post a Comment