
शीतला अष्टक
वन्देऽहं शीतलां-देवीं, रासभस्थां दिगम्बराम्।
मार्जनी-कलशोपेतां, शूर्पालङ्कृत-मस्तकाम्।।
वन्देऽहं शीतलां-देवीं, सर्व-रोग-भयापहाम्।
यामासाद्य निवर्तन्ते, विस्फोटक-भयंमहत्।।
शीतले शीतले चेति, यो ब्रूयाद् दाह-पीडितः।
विस्फोटक-भयं घोरं, क्षिप्रं तस्य प्रणश्यति।।
यस्त्वामुदक-मध्ये तु, ध्यात्वा पूजयते नरः।
विस्फोटक-भयं घोरं, गृहे तस्य न जायते।।
शीतले! ज्वर-दग्धस्य पूति-गन्ध-युतस्य च।
प्रणष्ट-चक्षुषां पुंसां , त्वामाहुः जीवनौषधम्।।
शीतले! तनुजान् रोगान्, नृणां हरसि दुस्त्यजान्।
विस्फोटक-विदीर्णानां, त्वमेकाऽमृत-वर्षिणी।।
गल-गण्ड-ग्रहा-रोगा, ये चान्ये दारुणा नृणाम्।
त्वदनुध्यान-मात्रेण, शीतले! यान्ति सङ्क्षयम्।।
न मन्त्रो नौषधं तस्य, पाप-रोगस्य विद्यते।
त्वामेकां शीतले! धात्री, नान्यां पश्यामि देवताम्।।
।।फल-श्रुति।।
मृणाल-तन्तु-सदृशीं, नाभि-हृन्मध्य-संस्थिताम्।
यस्त्वां चिन्तयते देवि! तस्य मृत्युर्न जायते।।
अष्टकं शीतलादेव्या यो नरः प्रपठेत्सदा।
विस्फोटकभयं घोरं गृहे तस्य न जायते।।
श्रोतव्यं पठितव्यं च श्रद्धाभाक्तिसमन्वितैः।
उपसर्गविनाशाय परं स्वस्त्ययनं महत्।।
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता।
शीतले त्वं जगद्धात्री शीतलायै नमो नमः।।
रासभो गर्दभश्चैव खरो वैशाखनन्दनः।
शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः।।
एतानि खरनामानि शीतलाग्रे तु यः पठेत्।
तस्य गेहे शिशूनां च शीतलारुङ् न जायते।।
शीतलाष्टकमेवेदं न देयं यस्यकस्यचित्।
दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै।।
।।इति श्रीस्कन्दपुराणे शीतलाष्टकं सम्पूर्णम् ।।
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता।
ReplyDeleteशीतले त्वं जगद्धात्री शीतलायै नमो नमः।।